|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.9. अध्यायः 009
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥ भीमेन क्षेमधूर्तिवधः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-9-0x(4857)(55356)
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे।
बृहत्यौ सम्प्रजहाते देवासुरचमूसमे॥ 8-9-1(55357)
ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः।
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान्॥ 8-9-2(55358)
पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्॥ 8-9-3(55359)
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः।
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम्॥ 8-9-4(55360)
व्यायतायतबाहूनां व्यायतायतबाहुभिः।
वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः॥ 8-9-5(55361)
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव॥ 8-9-6(55362)
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा॥ 8-9-7(55363)
गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे॥ 8-9-8(55364)
रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः।
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले॥ 8-9-9(55365)
रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः।
अश्वारोहैः पदाताश्च निहता युधि शेरते॥ 8-9-10(55366)
रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः।
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः॥ 8-9-11(55367)
रथाश्वेभनराणां तु नराश्वेभरथैः कृतम्।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्॥ 8-9-12(55368)
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः॥ 8-9-13(55369)
वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह॥ 8-9-14(55370)
वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः॥ 8-9-15(55371)
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः।
नानाविरागवसाना गन्धचूर्णावचूर्णिताः॥ 8-9-16(55372)
बद्धासयः पाशहस्ता वारणप्रतिवारणाः।
समानमृत्यवो राजन्नात्यजन्त परस्परम्॥ 8-9-17(55373)
कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः।
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः॥ 8-9-18(55374)
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः।
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः॥ 8-9-19(55375)
तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः।
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च॥ 8-9-20(55376)
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः॥ 8-9-21(55377)
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ।
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम्॥ 8-9-22(55378)
तस्यायसं वर्मवरं वररत्नविभूषितम्।
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा॥ 8-9-23(55379)
स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः।
शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून्॥ 8-9-24(55380)
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित।
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे॥ 8-9-25(55381)
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः।
यदृच्छया द्रुतवतोर्महापर्वतयोरिव॥ 8-9-26(55382)
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः॥ 8-9-27(55383)
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम्॥ 8-9-28(55384)
क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः॥ 8-9-29(55385)
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ।
वातोद्वूतपताकाभ्यां युयुधाते महाबलौ॥ 8-9-30(55386)
तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः॥ 8-9-31(55387)
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन्॥ 8-9-32(55388)
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः।
क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान्॥ 8-9-33(55389)
ततो भास्करवर्णाभमञ्चोगतिमयस्मायम्।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्॥ 8-9-34(55390)
ततः करूशाधिपतिश्चापमानम्य सायकैः।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम्॥ 8-9-35(55391)
अथ कार्मुकमादाय भीमो जलदनिः स्वनम्।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः॥ 8-9-36(55392)
स शरौघार्दितो नागो भीमसेनेन संयुगे।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः॥ 8-9-37(55393)
तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट्।
महावातेरितं मेघं वातोद्धूत इवाम्बुदः॥ 8-9-38(55394)
सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान्।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम्॥ 8-9-39(55395)
ततः साधुविसृष्टेन क्षुरेणानतपर्वणा।
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत्॥ 8-9-40(55396)
ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत्।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु॥ 8-9-41(55397)
स पपात महानागो भीमसेनस्य भारत।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्॥ 8-9-42(55398)
भीमसेनोऽपि तन्नागं गदया समपोथयत्।
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः॥ 8-9-43(55399)
`उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम्'।
उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः॥ 8-9-44(55400)
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम्।
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा॥ 8-9-45(55401)
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम्।
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ॥ ॥ 8-9-46(55402)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे नवमोऽध्यायः॥ 9 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-9-3 तस्तरुः आस्तीर्णवन्तः॥ 8-9-5 व्यायताः पुष्टाः आयताः दीर्घाः॥ 8-9-6 प्रहितैः निरस्तैः। ओहाक् त्यागे॥ 8-9-16 आपिडिनः भूषावन्तः। नाना पृथक् विविधरागाणि वसनानि येषां ते विरागवसनाः॥ 8-9-21 नागधूर्गतः गजस्कन्धगतः॥ 8-9-22 उदयाग्राद्रिभवनं उदयाद्रेरप्रभवनम्। अग्राद्रीत्यग्रशब्दस्य पूर्वनिपात आर्षः। उदयनामा अग्राद्रिः पूर्वपर्वतः स एव भवनमिति वा॥ 8-9-23 शारदस्य शरदा उपलक्षितस्य॥ 8-9-24 चारुमौलिः रम्यकिरीटः॥ 8-9-33 स भीमसेनः मेघैः सप्तसप्तिरिवांशुमान्। यथा मेघान्तर्हितस्य सूर्यस्य मरीचयः रश्मिरूपेण सर्वतः प्रचरन्ति एवं रश्मिस्थानीयास्तोमराः॥ 8-9-34 अञ्जोगतिं ऋजुगतिम्॥ 8-9-37 गृह्यमाणः निगृह्य माणः क्षेमधूर्तिना॥ 8-9-44 अहन्हतवान्॥ 8-9-45 हतः गदया शकलीकृताः। अतएव अभितोद्विपं द्विपस्याभितः पपात॥ 8-9-9 नवमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|